अक्षर आकार:

आचार्यपदावलम्बनस्तुतिः

Acharyapadavalambanastutih

आचार्यपदावलम्बनस्तुतिः

ओमित्यशेषविबुधाः शिरसा यदाज्ञां सम्बिभ्रते सुममयीमिव नव्यमालाम् । ओङ्कारजापरतलभ्यपदाब्ज स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १॥ नम्रालिहृत्तिमिरचण्डमयूखमालिन् कम्रस्मितापहृतकुन्दसुधांशुदर्प । सम्राट यदीयदयया प्रभवेद्दरिद्रः श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २॥ मस्ते दुरक्षरततिर्लिखिता विधात्रा जागर्तु साध्वसलवोपि न मेऽस्ति तस्याः । लुम्पामि ते करुणया करुणाम्बुधे तां श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३॥ शम्पालतासदृशभास्वरदेहयुक्त सम्पादयाम्यखिलशास्त्रधियं कदा वा । शङ्कानिवारणपटो नमतां नराणां श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ४॥ कन्दर्पदर्पदलनं कितवैरगम्यं कारुण्यजन्मभवनं कृतसर्वरक्षम् । कीनाशभीतिहरणं श्रितवानहं त्वां श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ५॥ राकासुधाकरसमानमुखप्रसर्प- द्वेदान्तवाक्यसुधया भवतापतप्तम् । संसिच्य मां करुणया गुरुराज शीघ्रं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ६॥ यत्नं विना मधुसुधासुरदीर्घिकाव- धीरिण्य आशु वृणते स्वयमेव वाचः । तं त्वत्पदाब्जयुगलं बिभृते हृदा यः श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ७॥ विक्रीता मधुना निजा मधुरता दत्ता मुदा द्राक्षया क्षीरैः पात्रधियाऽर्पिता युधि जिताल्लब्धा बलादिक्षुतः । न्यस्ता चोरभयेन हन्त सुधया यस्मादतस्तद्गिरां माधुर्यस्य समृद्धिरद्भुततरा नान्यत्र सा वीक्ष्यते ॥ ८॥ श्रीशङ्करार्यकरुणावशतः प्रणीतं स्तोत्रं तदीयमनुवर्णयुतं तदङ्घ्र्योः । भक्त्या समर्पितमिदं पठतां नराणां विद्यां विरक्तिमतुलां गुरुराट् तनोतु ॥ ९॥ इति श्रीजगद्रुरु श्रीश‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता आचार्यपदावलम्बनस्तुतिः समाप्ता ।